[ललिता पञ्च रत्नम्] ᐈ Lalita Pancharatnam Lyrics In Hindi/Sanskrit Pdf

Lalita Pancharatnam Stotram Lyrics In Hindi/Sanskrit प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥ प्रातर्भजामि ललिताभुजकल्पवल्लींरक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।माणिक्यहेमवलयाङ्गदशोभमानांपुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥ प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ 3 ॥ प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यन्तवेद्यविभवां करुणानवद्याम् ।विश्वस्य सृष्टविलयस्थितिहेतुभूतांविद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥ प्रातर्वदामि ललिते तव पुण्यनामकामेश्वरीति कमलेति महेश्वरीति ।श्रीशाम्भवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 … Read more