[नवरत्न मालिका स्तोत्रम्] ᐈ Navaratna Malika Stotram Lyrics In Hindi/Sanskrit Pdf

Navaratna Malika Stotram Lyrics In Hindi/Sanskrit हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनींकारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलांफालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ 1 ॥ गन्धसारघनसारचारुनवनागवल्लिरसवासिनींसान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरींइन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ 2 ॥ स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलांहारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकांमारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ 3 ॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकांवारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकांचारुचन्द्रविलोचनां मनसि भावयामि परदेवताम् ॥ 4 ॥ कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणींमण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ 5 ॥ वारणाननमयूरवाहमुखदाहवारणपयोधरांचारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् ।कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकांवारणान्तमुखपारणां … Read more