[शिव भुजङ्गम्] ᐈ Shiva Bhujangam Lyrics In Hindi/Sanskrit Pdf

Shiva Bhujangam Hindi/Sanskrit Lyrics गलद्दानगण्डं मिलद्भृङ्गषण्डंचलच्चारुशुण्डं जगत्त्राणशौण्डम् ।कनद्दन्तकाण्डं विपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थंचिदाकारमेकं तुरीयं त्वमेयम् ।हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थंमनोहारि सर्वाङ्गरत्नोरुभूषम् ।जटाहीन्दुगङ्गास्थिशम्याकमौलिंपराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिःपञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतंपरं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धंमरुत्वन्मणि श्रीमहः श्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ … Read more