[हनुमत्-पञ्चरत्नम्] ᐈ Hanuman Pancharatnam Lyrics In Hindi/Sanskrit Pdf

Hanuman Pancharatnam Lyrics In Hindi/Sanskrit वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम्सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥ तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम्सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ 2 ॥ शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम्कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ 3 ॥ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिःदारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥ वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ 5 ॥ एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥ ********