[हनुमत्-पञ्चरत्नम्] ᐈ Hanuman Pancharatnam Lyrics In Hindi/Sanskrit Pdf

Hanuman Pancharatnam Lyrics In Hindi/Sanskrit

वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम्
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥

तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम्
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ 2 ॥

शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम्
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ 3 ॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्
दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ 5 ॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्
चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥

********

Leave a Comment