Sri Krishna Sahasranama Stotram Lyrics In Hindi/Sanskrit
ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशर ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥
न्यासः%
पराशराय ऋषये नमः इति शिरसि,
अनुष्टुप् छन्दसे नमः इति मुखे,
गोपालकृष्णदेवतायै नमः इति हृदये,
श्रीकृष्णाय बीजाय नमः इति गुह्ये,
श्रीवल्लभाय शक्त्यै नमः इति पादयोः,
शार्ङ्गधराय कीलकाय नमः इति सर्वाङ्गे ॥
करन्यासः%
श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अङ्गुष्ठाभ्यां नमः ।
शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः ।
कृतात्मविद्याविन्यास इत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः,
बृन्दावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यनामिकाभ्यां नमः,
रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः
द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः,
एवं हृदयादिन्यासः ॥
ध्यानम्%
केषाञ्चित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् ।
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ 1 ॥
क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।
कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ 2 ॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे ॥ 3 ॥
ॐ ।
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ 1 ॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ 2 ॥
सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ 3 ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ 4 ॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ 5 ॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ 6 ॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् ।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ 7 ॥
वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ 8 ॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ 9 ॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ 10 ॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ 11 ॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ 12 ॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ 13 ॥
महर्षिमानसोल्लासो महीमङ्गलदायकः ।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ 14 ॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ 15 ॥
स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ 16 ॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ 17 ॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ 18 ॥
सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ 19 ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ 20 ॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ 21 ॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः ॥ 22 ॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ 23 ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ 24 ॥
प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ 25 ॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः ॥ 26 ॥
घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ 27 ॥
धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ 28 ॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ 29 ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ 30 ॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ 31 ॥
भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ 32 ॥
बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥ 33॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ 34 ॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ 35 ॥
मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ 36 ॥
हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ 37 ॥
दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ । 38 ॥
नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः ॥ 39 ॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ 40 ॥
प्रस्थानशकटारूढो बृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ 41 ॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ 42 ॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ 43 ॥
भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ 44 ॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ 45 ॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ 46 ॥
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ 47 ॥
गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः शृङ्गरवाकारितवत्सकः ॥ 48 ॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥ 49 ॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः ॥ 50 ॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ 51 ॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ 52 ॥
भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ 53 ॥
अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ 54 ॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ 55 ॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ 56 ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।
चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ 57 ॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ 58 ॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ 59 ॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ 60 ॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ 61 ॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ 62 ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ 63 ॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौताङ्घ्रिर्लीलावैचित्र्यकोविदः ॥ 64 ॥
बलभद्रैकहृदयो नामाकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ 65 ॥
वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गोपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ 66।
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः ॥ 67 ॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ 68 ॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ 69 ॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ 70 ॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः ॥ 71 ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः ॥ 72 ॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः ॥ 73 ॥
सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ 74 ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ 75 ॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ 76 ॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ 77 ॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ 78 ॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ 79 ॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ 80 ॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ 81 ॥
गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ 82 ॥
बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ 83 ॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ 84 ॥
रागपल्लवितस्थाणुर्गीतानमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ 85 ॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोबृन्दप्रेमोत्कर्णिततर्णकः ॥ 86 ॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ 87 ॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः ॥ 88 ॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् ।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः ॥ 89 ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ 90 ॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ 91 ॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ 92 ॥
बृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ 93 ॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ 94 ॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ 95 ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ 96 ॥
गोवर्धनधरो गोपगोबृन्दत्राणतत्परः ।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः ॥ 97 ॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ 98 ॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ 99 ॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।
धराङ्घ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ 100 ॥
ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।
ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ 101 ॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभङ्करः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ 102 ॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ 103 ॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ 104 ॥
शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ 105 ॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामानहरणो गोपिकाशतयूथपः ॥ 106 ॥
वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ 107 ॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ 108 ॥
गोपीचेलाञ्चलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ 109 ॥
गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः ।
विद्याधरेन्दुशापघ्नश्शङ्खचूडशिरोहरः ॥ 110 ॥
शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ 111 ॥
सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः ।
सङ्कर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ 112 ॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ 113 ॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ 114 ॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ 115 ॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ 116 ॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ 117 ॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ 118 ॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥ 119 ॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥ 120 ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ 121 ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः ॥ 122 ॥
जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसञ्चरः ।
गोमन्तदावशमनो गरुडानीतभूषणः ॥ 123 ॥
चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नस्सृगालात्मजराज्यदः ॥ 124 ॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ 125 ॥
द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः ।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ 126 ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ 127 ॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ 128 ॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः ॥ 129 ॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ 130 ॥
आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥ 131 ॥
तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः ।
अज्ञातपारो वश्यश्रीरव्याकृतविहारवान् ॥ 132 ॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ 133 ॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।
जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः ॥ 134 ॥
प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ 135 ॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ 136 ॥
कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः ।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥ 137 ॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ 138 ॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ 139 ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ 140 ॥
गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ 141 ॥
प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥ 142 ॥
स्वयम्प्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ 143 ॥
कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ 144 ॥
षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ 145 ॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेष्टनः ॥ 146 ॥
पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः ॥ 147 ॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ 148 ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
कंसविध्वंसनस्साम्बजनको डिम्भकार्दनः ॥ 149 ॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ 150 ॥
सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ 151 ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ 152 ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥ 153 ॥
मुनिबृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ 154 ॥
प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ 155 ॥
बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ 156 ॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः ॥ 157 ॥
सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ 158 ॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥ 159 ॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥ 160 ॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ 161 ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ 162 ॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ 163 ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ 164 ॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ 165 ॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥ 166 ॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ 167 ॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ 168 ॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् ।
विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः ॥ 169 ॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।
विदुराभिष्ठुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ 170 ॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक् ।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥ 171 ॥
अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥ 172 ॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ 173 ॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः ॥ 174 ॥
धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ 175 ॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ 176 ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ 177 ॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ 178 ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक् ॥ 179 ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ 180 ॥
अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ 181 ॥
अश्वत्थामवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ 182 ॥
पार्थापहारितद्रौणिचूडामणिरभङ्गुरः ।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ 183 ॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ 184 ॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः ॥ 185 ॥
शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ 186 ॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ 187 ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥ 188 ॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतस्सर्वभावनः ॥ 189 ॥
असोढयादवोद्रेको विहिताप्तादिपूजनः ॥
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ 190 ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः ॥ 191 ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः ॥ 192 ॥
वेलाकाननसञ्चारी वेलानिलहृतश्रमः ।
कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः ॥ 193 ॥
द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः ॥ 194 ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥ 195 ॥
स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ 196 ॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥ 197 ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ 198 ॥
व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः ॥ 199 ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ 200 ॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ 201 ॥
श्रीपरमात्मा परात्परः ॐ नमः इति ।
फलश्रुतिः –
इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ 202 ॥
तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ 203 ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ 204 ॥
इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ 205 ॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ 206 ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ 207 ॥
इदं नामसहस्रं यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्रस्य स प्रतिष्ठाफलं लभेत् ॥ 208 ॥
इदं किरीटी सञ्जप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान् ॥ 209 ॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ 210 ॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मानन्दमवाप्यान्ते कृष्णसायूज्यमाप्नुयात् ॥ 211 ॥
********