[बृहस्पति कवचम्] ᐈ Brihaspati/Guru Kavacham Lyrics In Hindi/Sanskrit Pdf

Bruhaspati/Guru Kavacham Lyrics In Hindi/Sanskrit

अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छन्दः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम्
अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥

अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥

जिह्वां पातु सुराचार्यः नासं मे वेदपारगः ।
मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ॥ 2 ॥

भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ 3 ॥

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥

जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥

फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥

॥ इति श्री बृहस्पति कवचम् ॥

********

Leave a Comment