[ब्रह्मज्ञानावलीमाला] ᐈ Brahma Jnanavali Mala Lyrics In Hindi/Sanskrit Pdf

Brahma Jnanavali Mala Lyrics In Hindi/Sanskrit सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ 1॥ असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥ 2॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥ 3॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते ।परमानन्दरूपोऽहमहमेवाहमव्ययः ॥ 4॥ शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥ 5॥ प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥ 6॥ तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।मायातीतः परञ्ज्योतिरहमेवाहमव्ययः ॥ 7॥ नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः ।सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ … Read more