[उमा महेश्वर स्तोत्रम्] ᐈ Uma Maheswara Stotram Lyrics In Hindi/Sanskrit Pdf

Uma Maheswara Stotram Hindi/Sanskrit नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्यां ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्यां ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्यां ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्यां ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्यां ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्यां ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्यां ।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्यां ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यांपञ्चाक्षरीपञ्जररञ्जिताभ्यां ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शङ्करपार्वतीभ्यां ॥ 5 ॥ नमः शिवाभ्यामतिसुन्दराभ्यांअत्यन्तमासक्तहृदम्बुजाभ्यां ।अशेषलोकैकहितङ्कराभ्यांनमो नमः शङ्करपार्वतीभ्यां … Read more