[दुर्गा पञ्च रत्नम्] ᐈ Durga Pancharatnam Lyrics In Hindi/Sanskrit Pdf

Durga Pancharatnam Lyrics In Hindi/Sanskrit

ते ध्यानयोगानुगता अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम् ।
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 1 ॥

देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षिलोकस्य पुरः प्रसन्ना ।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 2 ॥

परास्य शक्तिः विविधैव श्रूयसे
श्वेताश्ववाक्योदितदेवि दुर्गे ।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 3 ॥

देवात्मशब्देन शिवात्मभूता
यत्कूर्मवायव्यवचोविवृत्या
त्वं पाशविच्छेदकरी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 4 ॥

त्वं ब्रह्मपुच्छा विविधा मयूरी
ब्रह्मप्रतिष्ठास्युपदिष्टगीता ।
ज्ञानस्वरूपात्मतयाखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 5 ॥

इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णं ।

********

Leave a Comment