[वातापि गणपतिं भजेहं] ᐈ Vatapi Ganapatim Bhajeham Lyrics In Hindi/Sanskrit Pdf

Vatapi Ganapatim Bhajeham Lyrics In Hindi/Sanskrit

रागम्: हंसध्वनि (स, रि2, ग3, प, नि3, स)

वातापि गणपतिं भजेऽहं
वारणाश्यं वरप्रदं श्री ।

भूतादि संसेवित चरणं
भूत भौतिक प्रपञ्च भरणं ।
वीतरागिणं विनुत योगिनं
विश्वकारणं विघ्नवारणं ।

पुरा कुम्भ सम्भव मुनिवर
प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं
मूलाधार क्षेत्रस्थितं ।

परादि चत्वारि वागात्मकं
प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं
निजवामकर विद्रुतेक्षुखण्डं ।

कराम्बुज पाश बीजापूरं
कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं
हंसध्वनि भूषित हेरम्बं ।

********

Leave a Comment