[उपदेश सारं] ᐈ Upadesa Saram By Ramana Maharshi Lyrics In Hindi/Sanskrit Pdf

Upadesa Saram By Ramana Maharshi Lyrics In Hindi/Sanskrit

कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम् ॥ 1 ॥

कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम् ॥ 2 ॥

ईश्वरार्पितं नेच्छया कृतम् ।
चित्तशोधकं मुक्तिसाधकम् ॥ 3 ॥

कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात् ॥ 4 ॥

जगत ईशधी युक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम् ॥ 5 ॥

उत्तमस्तवादुच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम् ॥ 6 ॥

आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम् ॥ 7 ॥

भेदभावनात् सोऽहमित्यसौ ।
भावनाऽभिदा पावनी मता ॥ 8 ॥

भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद्भक्तिरुत्तमा ॥ 9 ॥

हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥ 10 ॥

वायुरोधनाल्लीयते मनः ।
जालपक्षिवद्रोधसाधनम् ॥ 11 ॥

चित्तवायवश्चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका ॥ 12 ॥

लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम् ॥ 13 ॥

प्राणबन्धनाल्लीनमानसम् ।
एकचिन्तनान्नाशमेत्यदः ॥ 14 ॥

नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः ॥ 15 ॥

दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम् ॥ 16 ॥

मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात् ॥ 17 ॥

वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः ॥ 18 ॥

अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम् ॥ 19 ॥

अहमि नाशभाज्यहमहन्तया ।
स्फुरति हृत्स्वयं परमपूर्णसत् ॥ 20 ॥

इदमहं पदाऽभिख्यमन्वहम् ।
अहमिलीनकेऽप्यलयसत्तया ॥ 21 ॥

विग्रहेन्द्रियप्राणधीतमः ।
नाहमेकसत्तज्जडं ह्यसत् ॥ 22 ॥

सत्त्वभासिका चित्क्ववेतरा ।
सत्तया हि चिच्चित्तया ह्यहम् ॥ 23 ॥

ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम् ॥ 24 ॥

वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः ॥ 25 ॥

आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयादात्मनिष्ठता ॥ 26 ॥

ज्ञानवर्जिताऽज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ 27 ॥

किं स्वरूपमित्यात्मदर्शने ।
अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ 28 ॥

बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः ॥ 29 ॥

अहमपेतकं निजविभानकम् ।
महदिदन्तपो रमनवागियम् ॥ 30 ॥

********

Leave a Comment