[नक्षत्र सूक्तम्] ᐈ Nakshatra Suktam Lyrics In Hindi/Sanskrit Pdf

Nakshatra Suktam Hindi/Sanskrit Lyrics

तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1
तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1

ॐ ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमिं॑द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभिर॒भिसं॒वसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1 ॥

प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धयं॑ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ॥ 2 ॥

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां यज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ 3 ॥

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् । हे॒ति रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ । प्र॒मुं॒चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशग्ं॑ सन्नुदता॒मरा॑तिम् । ॥ 4॥

पुन॑र्नो दे॒व्यदि॑तिस्पृणोतु । पुन॑र्वसूनः॒ पुन॒रेतां᳚ य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भियं॑तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धयं॑ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ 5॥

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि सम्ब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासुजि॒ष्णुः । दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधे॑तां॒द्वेषो॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ 6 ॥

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ । ये अं॒तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑सं॒चरं॑ति । येषा॑मश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ 7 ॥

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् । ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुल्लो॒कं पि॒तरः॑ क्षि॒यन्ति॑ । याग्-श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषन्ताम् ॥ 8॥

गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन् वरुणमित्र॒ चारु॑ । तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ संवि॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसं॒यन्ति॒ चेतः॑ । अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति ॥ 9 ॥

श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑ क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम्᳚ । गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह । भगो॑ह दा॒ता भग इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम । ॥ 10 ॥

आया॒तु दे॒वस्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न्॒, हस्तग्ं॑ सुभग्ं॑ विद्म॒नाप॑सम् । प्रयच्छं॑तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ वसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥11 ॥

त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भग्ं स॑संयुव॒तिग्ं राच॑मानाम् । नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याग्॑श्च । रू॒पाणि॑ पि॒ग्ं॒शन् भुव॑नानि॒ विश्वा᳚ । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ । तन्नः॑ प्र॒जां वी॒रव॑तीग्ं सनोतु । गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु यज्ञम् ॥ 12 ॥

वा॒युर्नक्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् । ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः । तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ 13 ॥

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदिं॑द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात् पु॒रस्ता॒दभ॑यन्नो अस्तु । नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ । विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑न्नुदता॒मरा॑तिम् । ॥ 14 ॥

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्यां᳚ दे॒वा अधि॑सं॒वसं॑तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिः स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒ययं॑ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् ।

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेयं॑ नो अस्तु । अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धयं॑तः । श॒तं जी॑वेम॒ श॒रदः॒ सवी॑राः । चि॒त्रं नक्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒र्वित॑तैरं॒तरि॑क्षे ॥ 16 ॥

इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं वृ॑त्र॒ तूर्ये॑ त॒तार॑ । तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः । क्षुधं॑तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् । ॥ 17 ॥

मूलं॑ प्र॒जां वी॒रव॑तीं विदेय । परा᳚च्येतु॒ निरृ॑तिः परा॒चा । गोभि॒र्नक्ष॑त्रं प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्यम्᳚ । अह॑र्नो अ॒द्य सु॑वि॒ते द॑दातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं वा॒चा निरृ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम्᳚ ॥ 18 ॥

या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अं॒तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम्᳚ । ता न॒ आपः॒ शग्ग् स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरुत प्रा॑स॒चीर्याः । यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शग्ग् स्यो॒ना भ॑वन्तु ॥19 ॥

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसंयं॑तु य॒ज्ञम् । तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः । क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वा᳚न् दे॒वान्, ह॒विषा॑ व॒र्धयं॑तीः । अ॒षा॒ढाः काम॒मुपा॑यन्तु य॒ज्ञम् ॥ 20 ॥

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒कमि॒दमू॑च॒ सर्वम्᳚ । तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ ॥ 21 ॥

शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम्᳚ । म॒हीं दे॒वीं विष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीमं॒तरि॑क्षम् । तच्छ्रो॒णैति॒श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ॥ 22 ॥

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जराः॒ श्रवि॑ष्ठाः । ते य॒ज्ञं पां᳚तु॒ रज॑सः पु॒रस्ता᳚त् । सं॒व॒त्स॒रीण॑म॒मृतग्ग्॑ स्व॒स्ति । य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भि संवि॑शाम । मा नो॒ अरा॑तिर॒घश॒ग्ं॒साऽगन्न्॑ ॥ 23 ॥

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ । श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भि संय॑न्तु दे॒वाः । तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑रद्भेष॒जानि॑ ॥ 24 ॥

अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं यं॑ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानस्समिधा॒ न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् । तग्ं सूर्यं॑ दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ 25 ॥

अहि॑र्बु॒ध्नियः॒ प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ । च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दा स॒ इति॒ यान्, वद॑न्ति । ते बु॒ध्नियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥ 26 ॥

पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां य॒ज्ञम् । क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा । अन्न॒ग्ं॒ रक्षं॑तौ बहु॒धा विरू॑पम् । वाजग्ं॑ सनुतां॒ यज॑मानाय य॒ज्ञम् ॥ 27 ॥

तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभं॒गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । स्वं नक्ष॑त्रग्ं ह॒विषा॒ यजं॑तौ । मध्वा॒सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । यौ दे॒वानां᳚ भि॒षजौ᳚ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ । तौ नक्ष॒त्रं जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म् ॥ 28 ॥

अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि । सु॒गं नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेनम॒भ्यषिं॑चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु ॥ 29 ॥

नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्वर्च॑सा संविदा॒ना । यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वसं॑तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम्᳚ ॥ 30 ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

********

Leave a Comment