[प्रियं भारतम्] ᐈ Priyam Bharatam Lyrics In Hindi/Sanskrit Pdf

Priyam Bharatam Lyrics In Hindi/Sanskrit

प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम् ॥ 1 ॥

धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम् ॥ 2 ॥

अनेके प्रदेशाः अनेके च वेषाः
अनेकानि रुपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम् ॥ 3 ॥

वयं भारतीयाः स्वदेशं नमामः
परं धर्ममेकं सदा मानयामः ।
तदर्थं धनं जीवनं चार्पयाम
प्रियं भारतं मे सदा वन्दनीयम् ॥ 4 ॥

रचन: डा. चन्द्रभानु त्रिपाठी

********

Leave a Comment