[श्री सीताराम स्तोत्रम्] ᐈ Sri Sita Rama Stotram Lyrics In Hindi/Sanskrit Pdf

Sri Sita Rama Stotram Hindi/Sanskrit Lyrics

अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ 1 ॥

रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ 3 ॥

कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ 4 ॥

चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।
मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ 5 ॥

चन्दनार्द्रभुजामध्यं कुङ्कुमार्द्रकुचस्थलीम् ।
चापालङ्कृतहस्ताब्जं पद्मालङ्कृतपाणिकाम् ॥ 6 ॥

शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥

दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकाङ्क्षिणौ ॥ 8 ॥

अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥

अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थदाः ॥ 10 ॥

एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः ।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ 11 ॥

इति हनूमत्कृत-सीताराम स्तोत्रं सम्पूर्णम् ॥

********

Leave a Comment