[तैत्तिरीय उपनिषद् – शीक्षावल्ली] ᐈ Taittiriya Upanishad Shikshavalli In Hindi/Sanskrit Pdf

Taittiriya Upanishad- Shikshavalli Lyrics In Hindi/Sanskrit

हरिः ओम् ॥ शं नो॑ मि॒त्रश्शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑-रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि। तन्माम॑वतु । तद्व॒त्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥1॥

ॐ शीक्षां व्या᳚ख्यास्या॒मः । वर्ण॒-स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्त-श्शी᳚क्षाध्या॒यः ॥2॥

स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सग्ंहिताया उपनिषदं व्या᳚खास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिष-मधिविद्य-मधिप्रज॑-मध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑श-स्स॒न्धिः ॥3॥ वायुः॑-स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू᳚र्वरू॒पम् ॥4। अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनग्ं॑ सन्धा॒नम् । इत्य॑धिवि॒द्यम् ॥ अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननग्ं॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥5॥ अथाध्या॒त्मम् । अधरा हनुः पू᳚र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हास॒ग्ं॒हि॑ताः ॥ य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥6॥

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सं ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्-षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यं॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥7॥ कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा᳚ । आमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । विमा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ ॥8॥ यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा᳚ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚न्थ्स॒हस्र॑शाखे । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा᳚ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚न्थ्स॒हस्र॑शाखे । नि भ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा᳚ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । एवं॒ मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा᳚ । प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥9॥

भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह स्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥10॥ मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूग्ं॑षि ॥11॥ मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते । भूरिति॒ वै प्राणः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥12॥

स य ए॒षो᳚ऽन्तर्-हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो विवर्त॑ते । व्य॒पोह्य॑ शीर्-षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥13॥ सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑श्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् । शान्ति॑समृद्ध-म॒मृतम्᳚ । इति॑ प्राचीन यो॒ग्योपा᳚स्स्व ॥14॥

पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षु॒श्रोत्रं॒ मनो॒ वाक्-त्वक् । चर्म॑ मा॒ग्ं॒सग्ग् स्नावाऽस्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒ वा इ॒दग्ं सर्वम्᳚ । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥15॥

ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्᳚ । ओमित्ये॒तद॑नुकृति हस्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥16॥

ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । तद्धि तप॑-स्तद्धि॒ तपः ॥17॥

अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥18॥

वेदमनूच्याचार्योऽन्तेवासिन-म॑नुशा॒स्ति । सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒थ्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥19॥ देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥20॥ नो इ॑तरा॒णि । ये के चास्मच्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संवि॑दा दे॒यम् । अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥21॥ ये तत्र ब्राह्मणा᳚स्संम॒र्-शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणा᳚स्संम॒र्-शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमुचैत॑दुपा॒स्यम् ॥22॥

शं नो॑ मि॒त्रश्शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥

********

Leave a Comment