[यज्ञोपवीत धारण] ᐈ Yagnopaveetha Dharana Mantra Lyrics In Hindi/Sanskrit Pdf

Yagnopaveetha Dharana Mantra In Hindi/Sanskrit Lyrics

“गायन्तं त्रायते इति गायत्री”

ॐ भूर्भुव॒स्सुवः॑ ॥
तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥

1। शरीर शुद्धि

श्लो॥ अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥

2। आचमनम्
ॐ आचम्य । ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्धनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।

3। भूतोच्चाटन
उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः ।
ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।

4। प्राणायामम्
ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।
ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

5। सङ्कल्पम्
ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वन्तरे, कलियुगे, प्रथमपादे, जम्भूद्वीपे, भरतवर्षे, भरतखण्डे, अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन ——- संवत्सरे —— अयने ——- ऋतौ ——- मासे ——- पक्षे ——- तिधौ —— वासरे ——– शुभनक्षत्रे (भारत देशः – जम्बू द्वीपे, भरत वर्षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका – क्रौञ्च द्वीपे, रमणक वर्षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये) शुभयोगे शुभकरण एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् ——– गोत्रस्य ——- नामधेयस्य (विवाहितानाम् – धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेस्वर प्रीत्यर्धं मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्धं नूतन यज्ञोपवीतधारणं करिष्ये ।

6। यज्ञोपवीत धारण

यज्ञोपवीत प्राण प्रतिष्ठापनं करिष्ये।

श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. – 10.59.6
अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।

7। यज्ञोपवीत मन्त्रम्

श्लो॥ यज्ञोपवीते तस्य मन्त्रस्य परमेष्टि परब्रह्मर्षिः ।
परमात्म देवता, देवी गायत्रीच्छन्दः ।
यज्ञोपवीत धारणे विनियोगः ॥

8। यज्ञोपवीत धारण मन्त्रम्

श्लो॥ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

9। जीर्ण यज्ञोपवीत विसर्जन

श्लो॥ उपवीतं छिन्नतन्तुं जीर्णं कश्मलदूषितं
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
ॐ शान्ति शान्ति शान्तिः

चतुस्सागर पर्यन्तं गो ब्राह्मणेभ्यः शुभं भवतु ।
———- प्रवरान्वित ——— गोत्रोत्पन्न ——— शर्म ——— अहं भो अभिवादये ।

समर्पण

यस्य स्मृत्या च नामोक्त्या तपस्सन्ध्या क्रियादिषु
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापते
यत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥

अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयन्तां वरदो भवतु ।
श्री कृष्णार्पणमस्तु ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्या‌உत्मना वा प्रकृते स्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

********

Leave a Comment