[भज गोविन्दम्] ᐈ Bhaja Govindam Stotram Lyrics In Hindi/Sanskrit With PDF

Bhaja Govindam Stotram Lyrics In Hindi/Sanskrit

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिङ्करणे ॥ 1 ॥

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥

नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ॥ 3 ॥

नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥

यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥

यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥ 6 ॥

बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः ॥ 7 ॥

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ॥ 8 ॥

सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥

मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥

दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥

द्वादश मञ्जरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ॥ 13 ॥

का ते कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरेका
भवति भवार्णव तरणे नौका ॥ 14 ॥

जटिलो मुण्डी लुञ्जित केशः
काषायान्बर बहुकृत वेषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ॥ 15 ॥

अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ 16 ॥

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुञ्चत्याशा पाशः ॥ 17 ॥

कुरुते गङ्गा सागर गमनं
व्रत परिपालनम्-अथवा दानम् ।
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ॥ 18 ॥

सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ 20 ॥

भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता ।
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ 22 ॥

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ 24 ॥

त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ 25 ॥

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ॥ 26 ॥

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मज्ञ्नान विहीना मूढाः
ते पच्यन्ते नरक निगूढाः ॥ 27 ॥

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥

प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् ।
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ 31 ॥

गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ 32 ॥

मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ॥ 33 ॥

********

Also Read:

Leave a Comment