[विष्णु षट्पदि] ᐈ Vishnu Shatpadi Stotram Lyrics In Hindi/Sanskrit Pdf

Vishnu Shatpadi Stotram Hindi/Sanskrit Lyrics

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ 2 ॥

सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ 3 ॥

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥

मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां ।
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ॥ 5 ॥

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ 6 ॥

नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥

********

Leave a Comment