[महा लक्ष्म्यष्टकम्] ᐈ Mahalakshmi Ashtakam Lyrics In Hindi/Sanskrit With PDF

Mahalakshmi Ashtakami Stotram Lyrics In Hindi/Sanskrit

इन्द्र उवाच –

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥

नमस्ते गरुडारूढे कोलासुर भयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥

सर्वज्ञे सर्ववरदे सर्व दुष्ट भयङ्करि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 3 ॥

सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।
मन्त्र मूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ 4 ॥

आद्यन्त रहिते देवि आदिशक्ति महेश्वरि ।
योगज्ञे योग सम्भूते महालक्ष्मि नमोऽस्तु ते ॥ 5 ॥

स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महा पाप हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 6 ॥

पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ 7 ॥

श्वेताम्बरधरे देवि नानालङ्कार भूषिते ।
जगस्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ 8 ॥

महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः ।
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥

एककाले पठेन्नित्यं महापाप विनाशनं ।
द्विकालं यः पठेन्नित्यं धन धान्य समन्वितः ॥

त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं ।
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥

[इन्त्यकृत श्री महालक्ष्म्यष्टक स्तोत्रं सम्पूर्णम्]

********

Also Read:

  1. [अष्ट लक्ष्मी स्तोत्रम्]
  2. [महा लक्ष्म्यष्टकम्]
  3. [लक्ष्मी अष्टोतरम]
  4. [लक्ष्मी चालीसा]
  5. [श्री सूक्तम्]

Leave a Comment