[नवग्रह स्तोत्रम्] ᐈ Navagraha Stotram Lyrics In Hindi/Sanskrit With PDF

Navagraha Stotram Lyrics In Hindi/Sanskrit

नवग्रह ध्यान श्लोकम्

आदित्याय च सोमाय मङ्गलाय बुधाय च |
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ‖

रविः

जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् |
तमोऽरिं सर्व पापघं प्रणतोस्मि दिवाकरम् ‖

चन्द्रः

दथिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव सम्भवम्) |
नमामि शशिनं सोमं शम्भो-र्मकुट भूषणम् ‖

कुजः

धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् |
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ‖

बुधः

प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् |
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ‖

गुरुः

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् |
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ‖

शुक्रः

हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् |
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ‖

शनिः

नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् |
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ‖

राहुः

अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् |
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ‖

केतुः

फलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घ्रं तं केतुं प्रणमाम्यहम् ‖

फलश्रुतिः

इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः |
दिवा वा यदि वा रात्रौ विघशान्ति-र्भविष्यति ‖

नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् |
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ‖

ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः |
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ‖

इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् |

*******

Navagraha Stotram/mantra lyrics in Hindi, english, tamil, telugu, kannada, Gujarati, Malayalam, Oriya, Bengali with pdf and meaning

Also Read:

Blessings: After Reading Navagraha Stotram/Mantra may all the Graha bless you with immense happiness and success in your life. And if you want your family and friends to also get blessed by all the nine Graha(Planets) then you must share it with them.

**नवग्रह**

Leave a Comment