[मन्त्र पुष्पम्] ᐈ Mantra Pushpam Lyrics In Hindi/Sanskrit Pdf

Namo Durge to everyone who is here to read Mantra Pushpam lyrics in Sanskrit. It is a Vedic chant used at the end of puja’s when we shower god & goddess with flowers. You can esily find this mantra in Taittiriya Aranyakam of the Yajur Veda.

And if you want to read this mantra in any other language then we have added this mantra in nine different languages.

Mantra Pushpam Hindi/Sanskrit Lyrics

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

यो॑ऽपां पुष्पं॒ वेद॑ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । चं॒द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

अ॒ग्निर्वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒ग्नेरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै वा॒योरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

अ॒सौ वै तप॑न्न॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नं ।आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

चं॒द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यश्चं॒द्रम॑स आ॒यत॑नं वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै चं॒द्रम॑स आ॒यत॑नं॒ । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

नक्ष्त्र॑त्राणि॒ वा अ॒पामा॒यत॑नं॒ । आ॒यत॑नवान् भवति । यो नक्ष्त्र॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नं॒ । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑स्या॒यत॑नं॒ । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नं॒ । आ॒यत॑नवान् भवति । यः सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नं॒ । आ॒यत॑नवान् भवति । य एवं वेद॑ । यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ।

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒राजाय॒ नमः॑ ।

ॐ᳚ तद्ब्र॒ह्म । ॐ᳚ तद्वा॒युः । ॐ᳚ तदा॒त्मा ।
ॐ᳚ तद्स॒त्यम् । ॐ᳚ तत्सर्वम्᳚ । ॐ᳚ तत्पुरो॒र्नमः ॥

अन्तश्चरति॑ भूते॒षु गुहायां वि॑श्वमू॒र्तिषु ।
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

ईशानस्सर्व॑ विद्या॒नामी॒श्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒र्-ब्रह्म॒णोऽधि॑पति॒र्-ब्रह्मा॑ शिवो मे॑ अस्तु॒ सदाशि॒वोम् ।

तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यन्ति
सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो
विप॒न्यवो॑ जागृ॒वाग्ं सस्समिं॑धते ।
विष्नो॒र्यत्प॑र॒मं प॒दम् ।

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

********

Also Read:

  1. [मन्त्र पुष्पम्]
  2. [बुध कवचम्]
  3. [साईं बाबा अष्टोथर]
  4. [गुरु पादुका]
  5. [श्रीराम रक्षा स्तोत्रम्]
  6. [नवग्रह स्तोत्रम्]
  7. [शनि चालीसा]

Language:

If you are reading this, you have to make a promise that after every pooja you do, you will come here and read this mantra.

In few days Download Mantra Pushpam in Hindi PDF with mp3 songs and images.

Leave a Comment